________________
296
न्यायमञ्जरी ज्ञानं किमात्मवन्नित्यं सौगतै रुपगम्यते । प्रारदर्शितानुसन्धान कामना दिक्रियाक्षमम् ।। ज्ञानं बौद्धगृहे तावत् कुतो नित्यं भविष्यति । अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ।। क्षणिकं चेष्यते कार्य न क्वचित् किंचिदाश्रितम् ! स्वतन्त्रं ज्ञानमेवातः नान्यस्तेनानुमीयते ॥
[ इच्छादीनां ज्ञानरूपत्वम् ] ज्ञानस्य च प्रभेदोऽयं इच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽप्यन्य कल्पनम् ।। गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना। न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ ,
[क्षणिकविज्ञानवादे स्मरणाद्युपपत्तिः] निराश्रयेषु विज्ञानस्कन्धेषु* क्षणभङगिषु ।
कथं स्मृत्यादिकार्य वा परलोकोऽपि वा कथंम् ।। सत्यपि परलोके कथमकृताभ्यागमकृतविप्रणाशौं पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादि कर्म कृतं, तस्य विनाशात् न तत्फलोपभोगः । यस्य च फलोपभोगः तेन न तत्कर्म कृतमिति-नैषदोषः-कार्यकारणभावस्य नियामकत्वात्। अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभाव
* रूपविज्ञानवेदनासंज्ञासंस्काररूपपञ्चस्कन्धात्मको जीवः। तत्र विज्ञानमप्येकः ॥
1 रभ्युपेयते-च,
स्मरणा-ख.
1 नु-ख, च,