________________
295 सप्तममाह्निकम्
ज्ञाते वनेचरसुखादतिदेशवाक्ये
दृष्ट मृगे विपिनवर्तिनि गोसदृक्षे । तत्संज्ञितामितिफलं लभते प्रमातृ
भेदे न चेदमुपमानमिति प्रतिष्ठम् ॥ वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहः
तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् । आकांक्षादिनिबन्धनान्वयकृतं वाक्यार्थसंपिण्डनं ज्ञापैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्बुवा ।। मयेदं पूर्वेद्युविहितमिदमन्येारपरं
विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः । यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥
[आत्मलक्षणज्ञानस्य फलम् ] इत्यात्मलक्षणमवादि यदेतदिच्छा
द्वेषप्रयत्नसुखदु खसमाश्रयत्वम् । *तत्सङिगनं तदिह हेयतया व्यवस्येत् तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥
[विज्ञानात्मवादोपक्षेपः ] अथो तथागताः प्राहुः किं पुंसा कल्पितेन वः । ज्ञानमात्रेण पूर्वोक्तः व्यवहारः प्रसिद्धयति ।
* तत्संगिनं-इच्छाद्वेषप्रयत्नादिमन्तम् । अशेषविशेषगुणोच्छोदो हि मोक्षः सिद्धान्ते ॥
ज्ञानमात्रेण न तु ज्ञानाश्रयेण ॥
1 रोऽवकल्पते-ख.