________________
सप्तममाह्निकम्
293
देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ॥
[ आत्मसाधने हेत्वन्तराणि] दिक्प्रदर्शनमिदं कृतमिच्छा.
द्वेषयत्नसुखदुःखमतीनाम् । लिङगताकथनमात्मनि तत्र
त्वस्ति हेतुनिवहो बहुरन्यः ।। कर्तृप्रयोज्यता खलु दृष्टा दानादिकरणजातस्य । त्वश्रोत्राद्यपि करणं तथैव का प्रयुज्येत ।। हिताहित प्राप्तिविसर्ग'योग्या
देष्टा च दृष्टा नियता शरीरे । तच्चेतनाधिष्ठिसताममुष्य
ग़न्त्रीरथादेरिव कल्पयामः ।। प्राणादिमारुतानामन्तश्चलता चलाचलगतीनाम् । सहजनिजकर्मविकृतौ कारणमनुमीयते किंचित् ।। इदं च देहादितरत्र दुर्लभं
निरीक्ष्य वृद्धि क्षतभग्नरोहणम् । ध्रुवं ग्रहस्येव गतिः प्रकल्पते निजाश्रय क्षेमपरायणो नरः ।।
* इदमेव 'आत्मा इन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्' इत्युक्तम् ॥ * प्राप्तिविसर्ग-उपादानहाने |
1 मर्श-ख,
कश्चि-ख,
' भग्न-ख,
म-ख.