________________
291
सप्तममाह्निकम्
[ गुणगुणिभेदसिद्धिः] अमुनैव प्रसङगेन रूपादिव्यतिरेकिणः । वक्तव्या गुणिनः सिद्धिरेतबुद्धिनिबन्धना ॥ रूपादिषु स्वतन्त्रेषु* न ह्येषप्रत्ययो भवेत् ।
न रूपमस्य विषयः न स्पर्शो न च तद्वयम् ॥ अतश्च -न गुणव्यतिरिक्तो गुणी, भेदेनाग्रहणात् – इत्यसिद्धः परोक्तो हेतुः, भेदग्रहणस्य दशितत्वात्। वृत्तिविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थनावसरे कथितम्, अवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया ॥
. [इन्द्रियाणामनात्मत्वे हेत्वन्तराणि ] इतश्च नेन्द्रियाणां चैतन्यम् , करणत्वात् ; वास्यादिवत्। भौतिकानि चेन्द्रियाणि वर्णयिष्यामः। तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः, स तेष्वपि योजनीयः ॥
अतश्चैवं. इन्द्रियान्तरविकारात् ॥ न्या. सू. ३-१-१२ ॥
आ'ने' हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे । रसनस्य विकारः स्यात् न दन्तोदक संप्लवः ।।
* स्वतन्त्रेषु-द्रव्यरूपेषु। यदि रूपं द्रव्यवत् स्वतन्त्रं स्यात् 'दृष्टमेवस्पृशामि' इति न स्यात् ॥
* कथितं-तुल्यव्यायातिदेशात् ॥
* सूत्रगत विकार' पदस्य भाष्योक्त विवरण-दन्तोदकसंप्लवः इति । दन्तोदकं-लालाजल मिति यावत् ॥
1 म्मे-च,
वि-ख.