________________
290
न्यायमञ्जरी नैतच्चारु-चेष्टेन्द्रियार्थाश्रयः शरीरं 'लक्ष्यते। तत्र तदनुप्रहात् इन्द्रियानुग्रहे सति पटुकरणत्वात् विषयग्रहणमपि पटुतरमिवभवति । न च विषयग्रहणादन्यच्चैतन्यं नाम ॥
___ [चेतनानामभौतिकत्वम् ] ___एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः। व्यापकत्वादात्मनः सर्वत्र - भावे सति भोगायतनत्वेन कदाचित भतावयवानां उपादानम्। अतः शुक्रशोणितादिवत दध्यवयवान् विकृतानुपादास्यते। तथा च स्वेदजादिभेदेन बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किचिदेतत्। तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।। ..
___[इन्द्रियचैतन्यवाद निरासः] नापीन्द्रियाणि यथोक्तस्य *ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते-- दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ (न्या-सू-३-१-१)
'यमर्थ'महम'द्राक्षं चक्षुषा, तमेवैतहि स्पर्शनेन स्पृशामि', 'यमस्प्राक्षं स्पर्शनेन, तमधुना चक्षुषा पश्यामि' इति कतरदिन्द्रियमेवमनुसन्दधीत ? न चक्षुः, स्पर्शाविषयत्वात् । न त्वगिन्द्रियं, रूपाविषयत्वात् । तस्मादुभयविषय ग्रहणसमर्थः कश्चिदनुसन्धाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते ॥
__ * ज्ञानादेः कार्यस्य-ज्ञानादिरूपकार्यस्य ।
1 व-ख,
पाटवं न हि-ख,
३ व-ख.
म-ख,