________________
289
सप्तममाह्निकम्
289 [शरीरचैतन्यवादनिरासः] इवश्न न शरीरस्य ज्ञानादियोगः, परिणामित्वात् , क्षीरवत् ; रूपादिमत्त्वात् , तद्वदेव ; अनेकसमूहस्वभावत्वात् , त्रिदण्डादिवत् ; सान्निवेशविशिष्टाच्च 'भूतत्वात , बा'ह्यभूतवत् ॥ .. चैतन्यशून्यं शरीरं, शरीरत्वात् , भूतशरीरवत्। न शरीरधर्मश्चैतन्यम् , अयावद्रव्यभावित्वात्। न च संयोगा दिभिः व्यभिचारः; तदुपजननापाययोनिमित्तान्तरजन्यत्वदर्शनात् , इह च तदभावात् । विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः। तद्विशेषगुणत्वे हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङगः ॥
[ किण्वादिदृष्टान्तदौस्थ्यम् ] यत्तु मदशक्तिवदित्युक्तम्-तत्रमदशक्तेदृष्टत्वात् अभ्युपगमः, न तु ज्ञानस्य तंत्र दर्शनम् ॥ ___ ननु ज्ञानमपि *तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते । भूते. ध्वन्नपानाधुपयोगपुष्टेषु पटवी चेतना भवति, तद्विपर्यये विपर्ययः । ब्राह्मीघृताधुपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते॥
वर्षासु च स्वेदादिनाऽनतिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा उपलभ्यन्ते। चैतन्ये च गुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्य पक्ष एव युक्तिः युक्तो लक्ष्यते ॥
*तत्-शरीरम् । शरीरप्रेरणादौ शरीरान्तरानपेक्षणात् प्रायेण इति ॥
पूतना-इति क्रि(कृ)मिसंज्ञा ॥
1 बा-ख,
कण्वा -ख,
न्य-ख,
वादपक्ष-ख
19