________________
288
न्यायमञ्जरी क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते । पाव. कसंपर्ककारित्वे तु सर्वत्र तथाभावः स्यात् । तस्मादविनष्टा एव घटादयः पच्यन्ते । सोऽयं तु घटादिन्यायः शरीरे नेप्यते ॥
न ह्यन्नपा'क: स्थैर्येऽपि* तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते । तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरं इति ज्वालादिप्रत्यभिज्ञावत्तत्प्रत्यभिज्ञति स्थितम् ।।
_[ अवस्थाऽवस्थावतोर्भेदाभेदविमर्शः ] यदप्युच्यते अवस्थानामेव नानात्वम्, अवस्थाता पुनरेक एव देहाख्यं इति तदप्ययुक्तम भेदाभेदविकल्पानुपपत्तेः। यदि शरीरादव्यतिरिता एव तदवस्थाः, 'तहि तन्नानात्वात् शरीरनानात्वप्रसङगः। एकस्माच्छरीरादप्यनन्यत्वात् अवस्थानामप्यन्योन्यं भेदो न स्यात् ॥
अथ व्यतिरिक्ताः शरीरादवस्थाः, तर्हि भेदेन तदुपग्रहो दर्शयितव्यः । न चासावस्ति । गोत्वादावनुवृत्ता बुद्धिरन्यथाऽसिद्धा सती 'जातितद्वतोर्भेदमापादयन्ती न* केनचित्प्रतिहन्यते ।, इह पुनरवस्थातुरेकत्वग्राहिणी बुद्धि : पूर्वनीत्या प्रमाणबाधितत्वात् भ्रान्तेति । तस्मात् शरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्ययोगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम् ॥
* शरीरस्येति शेषः ॥ + अनुगमकतया खलु गोत्वादिसिद्धिः ।।
___1 क-ख, कै-ग, के-च,
तदा अ-ख,
न-ख,
4 तू-ख.