SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 287 सप्तममाह्निकम् भवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य द्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते । तत्रामुष्मिन क्षणेऽमुष्य कार्यस्य प्रसवः, अमुष्य प्रलय इति प्रक्रिया न लिख्यते, ग्रन्थविस्तरभयात् , अप्रयोजनत्वाच्चेति ॥ . [आम्रफलादिष्वपि पीलुपाकः ] एवं तपनातप'पच्य'मानेष्वाम्रादिफलेष्वेष एवं न्यायः। शरीरे ऽप्यौदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ संभवत इति स्थैर्याभावात् कथमनुसन्धानादिकार्ययोगस्तस्येति ॥ . [पिठरपाकवादसमर्थनम् ] अपरे पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते। सुषिरद्रव्यारम्भाच्च अन्तर्बहिश्च पाकोऽप्युपपत्स्यते । *दृश्यते च पक्वेऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणम्। अतश्च पाककाले ज्वलदनलशिखाकलापानुप्रवेशकृतविनाश वत् तदापि शिशिर. तरनीरकणनिकरानप्रवेशकृतविनाशप्रसङगः। न चेदशी प्रमाणदृष्टिः । अतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भात् अन्तरान्तरा तेजःकणानुप्रवेशकृतपाकोपपत्तरलं विनाशकल्पनया। पिठरपाकपक्ष एव पेशलः ॥ यादगेव हि निक्षिप्तः घट: पाकाय कन्दुके। पाकेऽपि तादृगेवासौं उद्ध तो दृश्यते ततः ॥ * अवयविनः सच्छिद्रत्वे युक्तिमाह-दृश्यत इत्यादि ॥ + पिठरः स्थाल्युखा कुण्डम्' इत्यमरः । अवयवीति यावत् ॥ 1 दृश्य-ख, बलादपि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy