________________
286
न्यायमञ्जरी
[पीलुपाकवादवर्णनम्] यद्यपि कन्दुकनिक्षिप्तिा घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते। यद्यपि तत्संख्या, तत्परिमाणः, तत्सन्निवेशः, तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि 'पतन्तो न विभाव्यन्ते, यद्यपि च तदा तेषां कादिकारककलापासंभवात् पुनर्घटनमघटमानमिव लक्ष्यते-तथापि तेषामनुमानेन विनाशः परिकल्प्यते। सर्वावयवेष्वन्तर्बहिश्च पाकात् पूर्वरूपादिविलक्षणगुणोपलब्धः अन्तःप्रवेशः कृशानोरनुमीयते। तेन वेगवता वह्निद्रव्येण नोदनात् अभिघाताद्वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातः विभागः, विभागात् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात् द्रव्यविनाश इति ॥.
*अन्प्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनात् अवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव॥
.
[पीलुपाकवादे युक्त्यन्तरम् ] अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठारादयः केचित स्फटिताः, केचिद्वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते । तस्मादपि पश्यामो नश्यन्तीति ॥
तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्मा'दिभिः। अतः पूर्वोक्तनीत्या नष्टषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते। पक्वाश्च श्यामादिगुणानवजहतः रक्तादिगुणान्तरयोगमनु.
* पिठरपाकवादे ॥
। पूर्वस्थितसंख्यासमानसंख्यावत्वात् ऐक्यमिति न । सूक्ष्मावयवविश्लोषस्य ज्ञातुमशक्यत्वात् । तत्रावयविनाशाङ्गीकारात् ॥
1 ततो-ख,
रद्धय-क,
३ मथ्य-ग.
म्बा-ख,
घू-खं