SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 285 केशनखादिप्रत्यभिज्ञावदन्यथासिद्धा, विनाशस्या'नुपलम्भा'त्। स्तम्भा दौ हि क्षणभङगित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते। *सा चेहापि तादृश्येव -तदयुक्तम्-स्तम्भादौ नानात्वकारणाग्रहणात् । इह तु रूपपरिणाम 'सन्निवे'शाद्यन्यत्वदर्शनात् सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा। न खलु शिशुशरीरे, तरुणशरीरे, जरच्छरीरे च तुल्यमेव परिमाणा'द्युपलभ्यते ॥ [ शरीरभेदसाधनम् ] आहारपरिणामाच्च देहभेदोऽवगम्यते । पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा ।। न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे । *कांचिका धुपयोगे च न दृश्येतास्य रक्तता ।। क्षीणैरवयवैः कैश्चित् कैश्चिच्चाभिनवोद्गतैः । अभिन्न एवावयवी कथं भवितुमर्हति ॥ तथा च केचित पच्यमानस्य घटादेरपि प्रागवस्थाविसदशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितंवन्तः ॥ * सा-प्रत्यभिज्ञा | एवं च प्रत्यभिज्ञाप्रामाण्ये स्तम्भादेरपि स्थिरत्वं न सिद्धयेत् ॥ । अन्यथा-शरीरपरिणामाभावे ॥ * 'अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्चिके' इत्यमरः ॥ $ केचित्-पीलुपाकवादिनः ॥ 1 सम्भवा-ख, • नमीयते-च, 'म्बा-ख, ३ वे-ख, णामा-ख, चना-ख, 'गेन दृश्यते तस्य रि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy