SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 284 न्यायमञ्जरी ननु च स्वसन्ता'नेऽपि प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वात् , उत ज्ञानानां कार्यकारणभावात् ? इति न निश्चीयते। ततश्च संदिग्धो व्यतिरेक:-यथा ज्ञानानां कार्यकारणभावो नास्ति, यथा च न तत्कृतोऽयं व्यवहारः, तथाऽनन्तरमेव सविस्तरं व क्ष्यामः। तस्मादिच्छादिकार्येण युक्तमेकप्रमात्रनुमानम् ॥ [ देहादेः इच्छाद्याश्रयत्वासंभवः ] ननु चाश्रितमिच्छादि देह एव भविष्यति। . भूतानामेव चैतन्यमिति प्राह बृहस्पतिः ॥ उक्तं च मदशक्तिवद्विज्ञानमिति-उच्यते-शरीरं तावन्नेच्छादेरा श्रयः ; शैशवयौवनवार्धकादिदशाभेदेन भिन्नत्वात् ॥ . . तथाहि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते। .. न चान्येन स्मृते तस्मिन् अन्यस्येच्छोपजायते ॥ तेनाद्यादर्थविज्ञानात् *प्रकृत्येच्छासमुद्भवात् । एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः ।। . शरीरं च बाल्याद्यवस्थाभेदेन भिन्नम्। अतस्तस्य नाश्रयो भवितुमर्हति, सन्तानान्तरवत । यथा हि देवदत्तदृष्टेऽर्थे 'न यज्ञादत्तस्य स्मरणं, एवं बालशरीरानुभूते युवशरीरस्य तन्न स्यात् ॥ [ शरीरस्यैकत्वनिरासः] ननु अवस्थामात्रमेव भिन्नम् ; अवस्था'तृ शरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्ययप्रामाण्यादवगम्यते। न चेयं प्रत्यभिज्ञा लूनपुनर्जात * प्रकृत्य-प्रारभ्य ॥ 1 ने-ख, व-ख, भृती-ख, य-ख, न्य-ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy