SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 283 सप्तममाह्निकम् [आत्मनः अप्रत्यक्षेऽपि व्याप्तिग्रहणम् ] नैतदेवम्-यथा शाक्यपक्षे–सत्त्वात् क्षणिकत्वानुमाने व्याप्तिग्रहणम् , तथेहापि भविष्यति । तत्र हि यैव क्रमयोगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः, स एव क्षणिकः अन्वय इति धय॑न्तरनिरपेक्षत'यैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणं च अनुमानं च दशितम् । तद्वदिहाप्येक प्रमातपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति । तथापि सन्तानान्तरभेदे यदस्या दर्शनं, तदेवैककर्तृकत्वदर्शनमिति कोऽन. योर्हेतुत्वं विशेषः? . [ व्यप्तिग्रहणासंभवाक्षेपपरिहारौ ] ___ ननु ! तत्र नित्येभ्यः क्रमयोगपद्यज्यावृत्त्या व्यावृत्त त्वं* शक्य. ग्रहणम् । इह तु प्रमातृभेदेन प्रति'सन्धानव्यावृत्तिर्दुरवगमा। स्वसन्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः। न च तेभ्यो ब्यावृत्तं प्रतिसन्धानमिति ॥ तिष्ठत्वन्वयः, व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते। स्वस. न्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात् । तद्भेदग्रहे हि स्व परसन्तान विवेको न स्यात् । यद्येवम् , प्रमातृभेदग्रहणाभावात्। पुनरप्यात्मा प्रत्यक्ष आयातः ॥ - मैवम्-नात्मा प्रत्यक्षः। प्रमातृभेदो हि स्वसन्ताने न गृह्यत इत्युक्तम्। 'न पुनस्तदैक्यं गृह्यते । अन्यच्च भेदाग्रहणम्--अन्यच्च तदैक्यग्रहणम्। भेदाग्रहणादेव च व्याप्तिसिद्धेः न कष्टमनुमानम् ॥ * 'सत्त्वस्य इति शेषः ॥ + स्वापरसन्तनविवेकाभावादिति हेतुः ॥ मातृ-ख, क्ष-च, । स-ख, स्य-ख, न चै-ख, ३ त स-ख, 'अ-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy