________________
282
न्यायमञ्जरी . [आत्मसाधकव्याप्तिग्रहणसमर्थनम् ]
ननु कथं न दोषः ? शरीराद्याश्रयत्वप्रतिषेधसाधनेऽपि हेतोाप्ति ग्रहणासंभवात्। "याव"द्धि दर्शनस्मश्णेच्छादि कार्यजातमे क प्रमातृनियततयाऽनवधारितं, तावत् कथमस्मदवस्थाभिः न शरीराद्याश्रयत्वनिषेधस्य तत्पूर्वकस्य 'चैका माश्रितत्वस्य सिद्धिः ॥ .
क एवमाह-न गृहीतमेककर्तृकतया कार्यमिच्छादीति- यदि गृहीतं तहि वक्तव्यम् , क्व गृहीतम् ? केन वा प्रमाणेन गृहीतमिति। स्वात्मन्येवेति चेत्, सोऽयं प्रत्यक्ष आत्मा भवेत् । एवमनभ्युपगमे वा न व्याप्ति ग्रहणमिति ||
उच्यते-न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम्। न चैव धर्म्यन्तरे व्याप्तिर्गृह्यते। किन्तु स्वसन्तान एव। तथापि न सिध्यति प्रमातृनियततानुमानम् ? कथमिव सिध्यति? सन्तानान्तरेषु 'एकप्रमातृपूर्वकत्वेन प्रतिसन्धान म्य" दृष्टत्वात् ॥
[ व्याप्तिग्रहणकालासंभवप्रदर्शनम् ] . . 'ननु'! कोऽत्र व्याप्तिग्रहणकालः ? प्रमाणानुमान वद्धि* तद्भेदेन भवितव्यम्। ततः किम् ? इदं ततो भवति। कथं स्वसन्तान एव व्याप्तिर्गृह्यताम् ? कथं वा तत्रैव प्रमातृनियमोऽनुमीयतामिति । सेयसुभयतः पाशा रज्जुः। आत्मा वा प्रत्यक्षः। व्याप्तिर्वा दुरवगमेति ॥ .
* तद्भदेन–कालभेदेन ॥
_1 श-ख, 5 प्र-ख,
' ग्राहकबु-ख, 'कत्र-ख. स्या-च, ' किञ्च-ख, तृ-ख.
वा-ख.