________________
281
सप्तममाह्निकम् णात् निर्णयात्मकमेव ज्ञानमुदाहर्तव्यम्। तत्र हि बुभुत्साविमर्शादिपूर्वकत्व'मुपलब्धमिति तदेककर्तृकत्वमुपकल्प्यते । तदेवमिच्छादीन्यात्मलिङगानीति स्थितम् ॥
. [अनेकहेतुकथने दोषाभावः ] शास्त्रे चानेकहेतूक्तिः न दोषाय कथास्विवौं ।
शिष्यः कश्चित्क्वचित्किचित् अनुस्मृत्याभिधास्यति ॥ इति कारुणिको हि मुनिरने कमिह हेतुमार्गमुपदिष्टवान् ॥
[आत्मनः अनुमेयत्वेऽपि सुखाद्युपलब्धिसंभवः] ननु ! अत्र चोदितं-अनुसन्धातारमन्तरेण तदेतदिच्छादि कार्य नावकल्पत इति कथं ज्ञायते। एकत्र प्रमातरि तद्दर्शनादिति यदुच्यतेतदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङगीकृतं स्यात् इति व्यर्थमनुमानम्। अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकत्वेनेच्छादेः प्रतिबन्धाग्रहणादशक्यमन मानमिति - परिहृतमेतत् - कार्यत्वेनैव लिङगत्वमिच्छादेरुपवणितमस्माभिः, न स्मरणादिसमानाधारतयेति ।।
किमर्थस्तहि प्रतिसन्धानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषे. धार्थः । न त्वेवं व्याख्यातवन्तो वयम् , एकस्य प्रमातुः इच्छादिकार्याश्रयत्वदर्शनात् एकाश्रयत्वानुमानमिति । तस्मान्न दोषः॥
* कुत्रचित् जिज्ञासापूर्वकत्वात् ज्ञानस्य, इच्छेवादी सूत्रकारै रुपात्तेत्यर्थः ॥ । जल्पादिकथायां खलु द्वितीयहेतुप्रयोगे हेत्वन्तररूप निग्रहस्थानम् ।। * शरीरस्य क्षणिकत्वेन प्रतिसन्धानासंभवात् ।।
1 मु-ख,
प्र-ख.
न्वे-क,