________________
280
न्यायमञ्जरी ___ अथवा शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम्। तत्र हि सर्वात्मना* कार्यत्वस्य शङका'ऽपि नास्ति । न च तद्विलक्षणाश्रितम्, शरीराश्रितत्वस्य प्रत्यक्षमुपलम्भादिति ।।
[इच्छालिङ्गकात्मानुमानम् ] तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना शरीरादिविलक्षणमाश्रयमवगमयति, सविशेषणात् कार्यत्वादिति स्थितम्। यश्च स विलक्षण आश्रयः तत्राSSत्मसंज्ञाऽगमिको ॥
. [ द्वेषादिलिङ्ग कात्मानुमानम् ] . एवमेव द्वेषादेरात्मलिङगता वक्तव्या। यज्जातीयस्यार्थस्य सन्नि. धानाददुःखमनुभूतवान पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुःखसाधनतामनुसन्धाय तत् द्वेष्टीति। सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते॥
.. आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते । सोऽपि यथोक्तेन क्रमेणानुसन्धानपूर्वक एव। प्रयतमानस्य सुखदुःखे भवतः। • ते अपि तथैव द्रष्टव्ये ॥
[ज्ञानस्यात्मानुमानलिङ्गत्वेनाकथने हेतुः] ज्ञानं 'तु यद्यपि प्रथममनुसन्धाननिरपेक्षमपि भवति । तदपि च शक्यत एवात्मलिङगमभिधातुम् ; तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकर
* शरीरस्य सर्वैरपि अनित्यत्वाङ्गीकारात् ॥ + प्रथमेति-पूर्वसंजातेत्यर्थः। दर्शनविशेषणम् ।। * आगमिकी-वेदसिद्धा॥
1 स्पर्शो-ख,
ण-च,
य-ख.