________________
सप्तममाह्निकम्
279 पेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमात् शरीरादि. प्रतिषेधे सति, स एव केवलव्यतिरेकिभवने तु विशिष्टमाश्रयमनुमापयति । इच्छा-शरीरादिविलक्षणाश्रया-शरीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वात् । अत्र च साधर्म्यदृष्टान्तो न संभवतीति वेधर्म्यदृष्टान्तः 'प्रदयेते। स च घट एव। योऽभूत् साधर्म्यदृष्टान्तः कार्यत्वे *निर्विशेषणेऽपि घटः, स एव वैधHदृष्टान्तः सविशेषणे। यत्र विलक्षणाश्रितत्वं नास्ति, तत्र सविशेषणं कार्यत्वमपि नास्ति, यथा घटादाविति न न शक्यते वक्तुम् । तत्र कार्य-त्वमा योगेऽपि सविशेषणानां कार्यत्वाभावात् विलक्षणाश्रित त्वमपि तत्र नास्ति, भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ॥
[ केवलव्यतिरेकिसमर्थनम्] ननु चान्वयदर्शनमन्तरेण केवलो व्यतिरेकः प्रतीयमानः संदिग्धो भवति-किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिः, उत निमित्तान्तरकृता? इति । सन्दिग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतवदिति तार्किकाः-उच्यते-स्यादेतदेवम, यदि प्रथममनवगतान्वय एवं केवलव्यतिरेकशरणो हेतुः प्रयुज्येत। यत्र त्वन्वयव्यतिरेकवानेव हेतुः कंचन *विशेषमाश्रित्य केवलव्यतिरेकितामवलम्बते, तत्र न ? सन्दिग्ध व्यतिरेकताऽवकाशं लभते। घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते । तदस्य विलक्षणाश्रयविरहादेव सविशेषणहेतुशन्यता जाता, निविशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः॥
* शरीरादिषु बाधकोत्पत्तौ सत्या' इति विशेषणरहिते कार्यत्वे ।। +विशेषप्रयोगविशेषम् ॥
1 का-ख, शेष-ख.
मा-ख,
त्वं-ख,
य-ख, .