SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 276 न्यायमञ्जरी [मात्मनः मानसप्रत्यक्षगम्यत्वपक्षः] स्वयूथ्यास्तु केचिदाचक्षते-यो'कस्य कर्तृत्वं कर्मत्वं चानुपपन्नमित्यप्रत्यत्यक्ष आत्मा इष्यते ? तदयमनुमानेनापि कथं ग्रहीष्यते ? आत्मानमात्मनाऽऽत्मैव लिङगादनुमिनोति हि। तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ॥ तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम्। .. . तथाऽहंप्रत्ययस्यैषः प्रत्यक्षस्यापि गच्छतु ॥ देहादिव्यतिरिक्तश्च यथा लिङगेन गम्यते। . तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥ [ अरूपस्याप्यात्मनः प्रत्यक्षत्वम् ] 'ननु ! आत्मनः किं रूपं*, यत् प्रत्यक्षेण साक्षात्क्रियते ?-यद्येवं सुखादेरपि किं रूपं, यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ॥ ननु ! आनन्दादिस्वभावं प्रसिद्धमेव सुखादेः; तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान् ॥ सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते। मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । - अहं सुखीति तु ज्ञप्तिः आत्मनोऽपि प्रकाशिका ॥ * रूपं-आकारः । 1 दे-ख, न च-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy