________________
275 * सप्तममाह्निकम्
उक्तमत्र-'घटं जानामि' इति ज्ञानविशेषणविषयप्रतिभासः। 'अहं' इति तु शरीरे ज्ञातृत्वभ्रमः, एकस्यात्मनः ग्राह्यग्राहकभावानुपपत्तेरिति ॥
[आत्मनः चैतन्यरूपत्वासंभवः] यदपि स्वतश्चेतनस्वभावत्वमात्मनः कल्प्यते तदपि न सोपपत्तिकम् ।।
सचेतनश्चिता योगात् तद्योगेन विना जड: । नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ||
. [ अत्मनः ज्ञानरूपत्वे दोषः ] ___ यदि च स्वत एवार्थावभा'ससामर्थ्यमात्मनः*-तत् किमिन्द्रिय प्रयोजनम् ? मनष्षष्ठेरिन्द्रियनिरपेक्षपदार्थपरिच्छेद सामर्थ्यपक्षे च सर्वसर्वज्ञतापत्तिः। अतोऽवश्यं ज्ञानसमवायिनिबन्धनमेवात्मनश्चेतयितत्वम् ॥ . ... न च घटादिभिरतिप्रसङगः आशङकनीयः। पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वात्। चेतनादिक्रियाः कर्मसमवायिन्यो न भवन्ति । गमनादिक्रियास्तु कर्तसमवायिन्यः। तदियं ज्ञानक्रियाऽपि कर्तसमवायिन्येव । न च वस्तुशक्तिरनयोज्या भवति ॥
न जडत्वाविशेषेऽपि कर्मादौ समवैति चित् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥ तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम् ॥
* आत्मनः ज्ञानरूपत्वात् , ज्ञानस्य च सविषयत्वनियमात् ॥ + 'चेतयते' इति क्रियाः॥ *कर्म-घटादिः॥
1 स-ख,
न्य एव-ख,
३ चे-ख.