________________
274
. न्यायमञ्जरी
[आत्मनः अपरोक्षत्वनिराकरणम् ] अथोच्यते-न प्रत्यक्ष आत्मा, किन्त्वपरोक्ष इति ; नेदमर्थान्तर. वचनम् । शिशव एवं प्रतार्यन्ते, न प्रामाणिकाः। प्रत्यक्षश्च न भवति, अपरोक्षश्च भवतीति चित्रम् ||
प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत्, तपिरोक्षत्वमपि मा भूत् । . प्रकाशत्वादपरोक्षत्वमिति चेत्-न-दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वायोगात्। तस्मात् प्रकाशते चेदात्मा नूनमनुभूयेतापीति बलात् कर्मत्वमपरिहार्यम् । अतश्च तदवस्थैव द्वैरूप्य*. चोदना ॥
[ज्ञानमपि न स्वयंप्रकाशम् ] प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः। . स चात्मन्यपि तुल्यो न्यायः । कल्पनाद्वैरूप्यं च भवतां, आत्मा च स्वप्रकाशः, संविच्च स्वप्रकाशेति । न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान् - इयं स्वप्रका'शा फलरूपा संवित्ती, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति। चित्रं चेदं यत्तयोः द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षः ज्ञानाख्यः संपन्नः इति ॥
[ अहंप्रतीतेः शरीरविषयत्वम् ] ननु 'घटमहं जानामि' इत्यत्र त्रयप्रतिभासः-'' इति विषयः प्रकाशते, 'अहं' इत्यात्मा, 'जानामि' इति संविदिति ||
* द्वैरूप्यं-कतृत्वं, कर्मत्वं च ॥ * संवित्-भात्मधर्मभूता ॥
1 श-ख,
'क्ष-ख.