________________
273
सप्तममाह्निकम्
[आत्मनः स्वयंप्रकाशत्वपक्षः] अपरे पुनराहुः-7 ग्राह्यग्राहकरूपोभयसंपत्तेरेकस्य कर्मत्वं कर्तुत्वं च युगपदात्मनो मन्यामहे ; किन्तु चितिशक्तिस्वभाव मपरसाधनमपरोक्षमात्मतत्त्वं प्रचक्ष्महे । न ह्यात्माऽन्यजन्येन ज्ञानेन घटादिरिव प्रकाश्यते, अपि तु स्वत एव प्रकाश्यते। चेतनत्वमपि तस्य नैसर्गिकमेव, न करणोपनीतचितियोगनिबन्धनम्। चिद्योगाद्धि चेतनत्वे घटादावपि तत्प्रसङगः । न चास्ति नियमहेतुः, अनेककारकनिकरपरिघटिततनुरपि चितिरात्मानमेव ज्ञातारं करोति, न कारकान्तरमिति । तस्मात् स्वत एव चित्स्वभावता तस्य भद्रिका । तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम् । यंदाहः-संवित संवित्तयैव संवेद्यते, न संवेद्यतयेति । नास्याः कर्मभावो विद्यत इत्यर्थः। एवमात्मा ग्राहकतयैव प्रकाश्यते, न ह्यतयेति तद्वैरुप्य स्यं चोद नमनुपपन्नमिति ॥
- [आत्मनः स्वयंप्रकाशत्वासंभवः ] एतदपि न चतुरश्रम्-अपरसाधनमिति कोऽर्थः ? उपायान्तरनिरपेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति ; तदयुक्तम् - अकरणिकायाः प्रतीतेरदृष्टत्वात् । अपूर्वं च तत् किमपि यथाभ्युपगतप्रमाणातिरिक्तमेव प्रमाणं स्यात् । न च नियमकारणमत्र पश्यामः, तथा प्रकाशमानः स्व एवात्मा प्रकाशते, न परात्मेति । प्रकाशमानत्वेन चात्मनो 'नूनमनुभूयमानता वाच्या। अनुभूयमानता च अनुभवकर्मत्वम् , इतरथाऽस्याः प्रत्यक्षतैव न स्यात् ॥
* अपरसाधनं-साधनान्तरानधीनप्रकाशम् ॥
+ अस्वयंप्रकाशस्यात्मत्वे चैतन्याश्रयत्वे च घटस्यापि चैतन्याश्रयत्वमस्त्वित्यापादने नोत्तरं वक्तुं शक्यमित्यर्थः ॥
* स्वं प्रतीति शेषः॥
__1 चिन्त-च,
पूर्व-च.
18