SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 272 . न्यायमञ्जरी मनुपाधिकमभिदधता विज्ञानवादवर्त्म संश्रितं स्यात् । तस्मादहंप्रत्ययस्य ग्राहकाद्भिन्नं ग्राह्यं अभिधित्सता शरीरमेव ग्राह्यमभ्युपगन्तव्यम् । ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य 'मिथ्यात्वम्, अस्तु ना'मात्मावलम्बनता॥ अत एव कृशश्यामसामानाधिकरण्यधीः । शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते ॥ [अहमर्थस्य शरीरातिरिकत्वं नानुभवसिद्धम् ] ननु ! 'ममेदं शरीरं' इति भेदप्रतिभासात् कथमहंप्रत्ययः शरीरालम्बनः स्यात् ? भोः साधो ! नैवंविधेषु विश्वसितुमर्हति । 'ममात्मा, इत्यपि भेदप्रत्ययदर्शनात् ॥ ___ अथावस्थाभेदादिना यथातथा तत्समर्थनमास्थीयते; तदिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते। तरपात् अहंप्रत्ययः शरीरालम्बन एवेति, स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकर. णस्तु सम्यगिति॥ ['मम शरीरम्' इति प्रतितेर्मिथ्यात्वम् ] , ये तु 'मम शरोरं' 'ममात्मा' इति बुद्धी, ते द्वे अपि मिथ्या ममप्रत्ययस्याहंप्रत्ययवत् आत्मानालम्बनत्वात् , शरीरे च भेदानुपपत्तेः ॥ मम पाणि जो वेति भिन्नत्वादुपपद्यते। शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ।। तस्मादहंकारममकारयोः द्वयोरप्यविषयत्वात्* आत्मा परोक्ष इति सिद्धम् ॥ * आत्मनः इति शेषः॥ 1 ना-ख, सि-ख-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy