________________
सप्तममाह्निकम्
271 तु ज्ञातृता ग्राहिकेति। “घटमहं जानामि' इति कोऽर्थः ? कथम् जानन्तमात्मानं 'जानामि' इत्यस्मत्प्रयोगसंभेदाच्चैवमवकल्पते। अन्यत्र तु शुद्धविषयग्रहणमेव भवति 'घटोऽयं' इति तदेतदपि सरलमतिप्रतारणमात्रम –'यथा हि 'घटोऽयं' इत्र घटमात्रप्रवणैव संवित् , एवं अस्मत्प्रयोगभेदेऽपि 'घटमहं जानामि' इत्यत्र घटप्रवणैव बुद्धिः ॥ ___ इयांस्तु विशेषः-पूर्व केवलं घटग्रहणं, अधुंना तु ज्ञानविशिष्टघटावमर्श इति ॥
[विज्ञानस्यात्मत्वे युक्तिः] ननु ! विभज्यमानायां प्रतीतौ 'घटोऽयं' इति तावत् विषयग्रह. णम्। 'जानामि' इति तु ज्ञानग्रहणमपि भवतु नाम। अहमिति तु कस्य ग्रहणम् ? न चैकस्यामेव प्रतीतौ अंशविभागेव प्रामाण्यमप्रामाण्यं च वक्तुं युक्तम्-घटमिति जानामीति च प्रमाणं, अहमिति तु न प्रमाण मिति। तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः ।। उक्तमत्र नैकस्यां प्रतीतावात्मनः कर्तृता कर्मता च स्यातामिति ।।
[ग्राह्यस्यैव न ग्राहकत्वम् ] यस्तूपाधिस्त्वयोन्नेतुमुपक्रान्तः, सोऽयं न घटते, घटप्रवणत्वात् । 'घटं अहं जानामि' इति प्रतीतेविभज्यमानत्वेऽपि घटमिति जानामीति च अंशद्वयं विषयनिष्ठमेव जातम्। अहमिति तु अयमंशः यद्यात्मविषय इष्यते, तर्हि स एव तु शुद्धोऽवशिष्यते ग्राह्यो ग्राहकश्चेति। नावस्था कृतस्तद्भेदः समर्थितः स्यात् ।। भेदाभावेन चैकस्यैव-ग्राह्यग्राहकभाव
* विषयगतः उपाधिः। स चानुपदं प्रदर्शितः ॥
न ह्यात्मनः घटावच्छिन्नत्वं, तदनवच्छिन्नत्वं च कदापि वक्तुं शक्यम् ।।
1 अ-ख,
' तथा-ख, , ३ बुद्धिः -ख.