________________
270
. न्यायमञ्जरी विषयः, तदतिरिक्तं वस्तु *भाक्त इति । तस्मादहंप्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति ।
[आत्मनः अहंप्रतीतिविषयत्वे विवादः] अत्र वदन्ति-शब्दमात्रोच्चारणमेतत् 'अहं जानामि' 'अहमिच्छामि' 'अहंसुखी' 'अहं दुःखो' इति । न तु ज्ञानादिस्वरूपातिरिक्तः तदाश्रयः . कश्चिदेतासु बुद्धिषु परिस्फुरतीति । कथमेकस्यामेव संविदि कर्ता च कर्म . चात्मा भवेत् ॥
ग्राह्यग्राहकतैकस्य ज्ञानस्यापाकरिष्यते ।। त्वयाऽपि नेष्यते चेति तथा नास्त्यात्मनोऽपि सा || ..
[विज्ञानात्मनः ज्ञातृत्वासंभावः ] यच्च अवस्थाकृतं भेदमवलम्ब्य ग्राह्मग्राहकभावसमर्थनभेकस्यैवा. त्मनः कृतं 'किल द्रव्यादि रूप मात्मनो ग्राह्य, ज्ञातृरूपं च ग्राहकमिति' तदनुपपन्नम्—द्रज्यादि रूपे ग्राह्ये न ज्ञातरि 'ग्राह्यता' साधिता स्यात। आत्मवतिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात् ॥..
[व्यवसायानुव्यवसायवेलक्षण्यविमर्श:] यदपि निपुणंमन्यैरुच्यते-भवतु ज्ञातृतेव ग्राहिका। तथापि *विषयोपाधिकृ तोऽस्त्येव भेदः। घटावच्छिन्ना हि हि ज्ञातृता ग्राह्मा, शुद्धव
* भाक्तः विषय इत्यर्थः॥
+ आत्मा अहंप्रत्ययगम्यश्चत् , तत्प्रत्ययविषयोऽप्यात्मा, तादृशप्रत्ययाश्रयोऽप्यात्मेति एकस्यैव कर्तृत्वकरणत्वे विरुद्ध स्याताम् ।।
तथा चात्मनः घटादिवत् पराक्त्वमेव स्यात् ॥
। सत्या-ख,
स्वरूप ख,
३ स्वरूपे-ख,
' ग्राहकता-ख,