________________
269
सप्तममाहिक
ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया । 'ज्ञातवानह मेवादौ अहमेवाद्य वेद्मि च* ।। नोत्तरस्य च पूर्वस्य न ज्ञानक्षणयोर्द्वयोः । न सन्तानस्य चैतस्मिन् प्रत्ययेऽस्त्यवभासनम् ।। नोत्तरोज्ञानवान् पूर्व पूर्वो जानाति नाधुना ।
न द्वयोर्द्वयमप्यस्ति सन्तानस्तु न वास्तवः ॥ . अवस्तुत्वाच्च नासौ पूर्व किचिज्ज्ञातवान् , न चाद्य किचिज्जाना. तीति। तस्मादहमेव ह्यो ज्ञातवान् , अहमेवाद्य जानामीत्यस्मिन् प्रत्यये ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतिभातीति गम्यते ॥
[शरीरं न अहमर्थः ] न चासौ का यः, बालाद्यवस्थाभेदेन नानात्वात् , अचेतनत्वाच्च । एवंच प्रत्यभिज्ञाऽहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे, सोऽयं स्थूलादिसमाना. धिकरणः अहंप्रत्ययः तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति कल्पयिष्यते। न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहंप्रत्ययमिथ्यात्वकल्पनं युक्तं, अबाधितत्वात्। न खल्वहं जानामीति प्रत्ययः केन चिदल्पीयसा दोषकारणेन कलुषीकर्तुं पार्यते। तत् अस्यात्मैव मुख्यो
. * एतस्मिन् प्रत्यये प्रत्यभिज्ञायां न केवल पूर्वज्ञानक्षणस्य, न केवलं उत्तरस्य तस्य, न द्वयोः ज्ञानक्षणयोस्सन्तानस्य च अवभासन अस्ति । एतदेवोपपादयति अनन्तरवाक्यैः। न वास्तवः, अतिरिक्तसन्तानानङ्गीकारादिति हेतुः॥
। प्रत्यभिज्ञाऽहं प्रत्ययः-प्रत्यभिज्ञारूपः अहंप्रत्ययः॥ मिथ्येति-'न चासौ कायः' इत्याद्युक्तहेतुनेति शेषः॥
1 ज्ञातव्यमह-ख,
व-ख,