________________
268
न्यायमञ्जरी आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मानमवबोधयितुं श क्ष्यन्ति। अयमपि चागमोऽस्त्येव 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ति' इति। तत् आत्मनो नित्यस्य परलोकिनोऽभावात् कृतमेताभिः अपार्थकपरिश्रमकरिणीभिः परलोककथाभिः ॥
[आत्मनः अहमर्थत्वम् ] तत्र प्रत्यक्षमात्मानमौपवर्षाः* प्रपेदिरे।।
अहंप्रत्ययगम्यत्वात् स यूथ्या अपि केचन ।।। अस्त्ययमहंप्रत्ययः कश्चित् शरीरसमानाधिकरणः स्थूलोऽहम्' "क्षामोऽहं' इति । कश्चित् ज्ञातसमानाधिकरणः - 'जानाम्यहम' 'स्मराम्यहम्' इति । तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहं प्रत्ययः॥
ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् । यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ।। . . न हि ज्ञानसुखेच्छादियोगः 'कार्य'न्द्रियादिषु । न च ज्ञानादिशून्येऽर्थं जानामीत्यादिसंविदः ॥
* उपवर्षः पूर्वोत्तरमीमांसावृत्तिकारः। भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधानप्रसक्ती 'शारीरके वक्ष्यामः' इत्युद्धारः कृतः' इति शाङ्कर. ब्रह्मसूत्रभाष्यम् (3-3-53)॥
+ प्रत्येकसमुदायादिविकल्पैरसंभवादिति हेतुः॥
1 क्यन्ते-ख,
स्व-ख,
'कृशोऽह-ख.
कर्मे-ख.