________________
सप्तममाह्निकम्
267 तदित्थमेव द्वादशविधं प्रमेयं अतिगहनसंसार*मारवस्थलप्रभव' भीम'सन्तापनिर्वापणमहाहदतामुपयातीति तदेवोप देशाहमिति सिद्धम् ॥
[ आत्मविचारोपक्षेपः ] . विरक्तसंकथास्ताव दसतां तापसोदिताः । आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ।।
[ शरीरात्मवादो पक्षेपः] तथा च लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात् कायात् नात्माऽन्योऽस्तीति मन्वते ।। न च तावदात्मा प्रत्यक्षतो गृह्यते, घटादिवत् बाह्येन्द्रियेण, सुखादियन्मनसा वा परिच्छेत्तुमशक्यत्वात् । अनुमानं तु न प्रमाण मेव चार्वाकाणाम्। न चात्मसिद्धौ किंचन लिङगमस्ति। ज्ञानादियोगस्तु भूतानामेव परिणाम विशेषोपपादितशक्त्यतिशयजुषां भविष्यति। यथा गुडपिष्टादयः प्रागसतीमपि मदशक्ति आसादितसुराकारपरिणामाः प्रपद्यन्ते, तथा मृदाद्यवस्थायां अचेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं स्प्रक्ष्यन्ति। कालान्तरे च व्याध्यादिना परिणामविशेषमवजहन्ति तान्येव चैतन्यशून्यतामुपयास्यन्ति। चैतन्य वत्त्वा नपायाच्च तावन्तं कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिर्वहणनिपुणतामनुभविष्यन्ति इति किमनुमानक आत्मा स्यात् ?
* मारवं-मरुसंबन्धि ॥ , 'अहं सुखी' इत्यत्रापि शरीरमेव भासत इत्याशयः॥
1 तीव्र-ख, वा-ख, 'वि-ख, 'त्वा-ख, तत्त्वा-घः
दसंजातफलोचिताः-ख.
'न्ते-ख,