________________
266
न्यायमञ्जरी रागादयश्च दोषाः शरीरादिजन्महेतवः। एतत्कृतश्च शरीरादियो गवियोगाभ्यासः प्रेत्यभावः । *एतत्कृतमेव च संसारे सुखदुःखरूपं फलं । तच्य विविधमेव। विवेकवतः सर्व दुःखमेवेति । एवं शरीरादि दुःखान्तं हेयतयैव भावनीयम्। एददनुपयुक्तश्चात्माऽपि तथैव। एतद्वियुक्त स्त्वात्मैवापवर्ग उच्यते। स चोपादेयतया भावनोयइत्यत एवात्मपदसंगृहीतस्याप्यस्य पुननिर्देशः, स दि परमः पुरुपार्थ इति ॥
[ तत्त्वज्ञानस्य मोक्षहेतुत्वोपपापनम् ] एवमिदं द्वादश विधं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन अभ्यासात् तद्विषयविपरीतग्रहात्मकं मिथ्याज्ञानं क्षिणोति ।।
तत्त्वज्ञानोदय'नास्य मिथ्याज्ञानेऽपबाधिते । रागद्वेषादयो दोषाः तन्मूलात्क्षयमाप्नुयुः ।। क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका । सदभावान्न तत्कार्यं शरिरायुपजायते ।।
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः । अशेषदुःखोपरमः सोऽपवर्गोऽभिधीयते ।। .
* एतत्कृतं-जननमरणावृत्तिरूपप्रेत्यभावकृतम् ॥
* परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः' इति योगसूत्रम् (2-76) ॥
* यद्यपि 'तदत्यन्तविमोक्षोऽपवर्गः' (न्या-सू) इति आत्यन्तिकदुःखनिवृत्तिरेव मोक्ष इत्युक्तम् । परन्तु दु.खास्यन्ताभावस्य स्वतः पुरुषार्थत्वासंभवात् तद्विशिष्ट आत्मैव परमपुरुषार्थः। सूत्रं तु प्राप्ताप्राप्तविवेकन्यायेन प्रवृत्तम् ॥
$ अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतिः॥
__1 गा-ख, द्वि-ख. 3 सुख दुःख वेति-ख, 'मु-घ. ' भेद-ख, ... ' ज्ञानेन ते-ख,
प-ध,