SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 265 मिथ्याज्ञाननिवृत्त्यादिक्रमेण अपवर्गाहेतुत्वप्रतिज्ञानात् । तथाविधस्य चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ॥ [ आत्मादीनां प्रमेयत्वोपपादनम् ] . भवत्वेवम् ! सूत्रस्य तु कथमीदृशप्रमेय विशेषसमर्थने सामर्थ्यम् ? 'विशेषनिर्देशात्तु', शब्दप्रयोगसामर्थ्याच्च ॥ सत्यम् , आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति । तत्तु न सप्रयोजनं आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् , अस्यैव निःश्रेयसहेतुत्वादित्याशयः ॥ तदित्नमेष तुशब्दः निःश्रेयसा नङगभूतप्रमेयान्तरपरिहारद्वारेणविशिष्टमात्मादि प्रमेयमिह सूचयति ॥ .. तद्वादशविधत्वेऽपि हेयोपादेयभेदतः । द्विधोच्यते "मुमुक्षणां तथैव *ध्यानसिद्धये ॥ तत्र देहादि दुःखान्तं हेयमेव व्यवस्थितम्। उपादेयोऽपवर्गस्तु, द्विधाऽवस्थितिरात्मनः ॥ सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः। उपादेयस्तु भोगादिव्यवहारपराङमुखः ॥ . [आत्मादिज्ञानस्य मुमुक्षुसंपाद्यत्वम् ] - . आत्मनो हि भोगाधिष्ठानं शरीरम्। भोगसाधनानीन्द्रियाणि । भोक्तव्या इन्द्रियार्थाः। भोगकारणं मन:। प्रवृत्तिः पुण्यपापात्मिका। * ध्यानं–चिन्तनम् । हेयोपादेययोश्चिन्तनं हानाय, उपादानाय च ॥ 1 विशेषात्तु-ख, -ख, ३ सुसूक्ष्माणां-ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy