SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 277 सप्तममाह्निकम् _ [आत्मनः प्रत्यक्षत्वमन्तरा सुखादेः प्रत्यक्ष न संभवति ] अपि च ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् । स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥ विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् । पूर्वं चाननुभूतस्य स्मरणं नावकल्पते ।। न चानुमानतः पूर्व ज्ञात्वाऽऽत्मानं विशेषणम् । तद्विशिष्टार्थबुद्धिः स्यात् 'क्रमस्या नवधारणात् ॥ तस्मात प्रत्यक्ष आत्मा ॥ . [आत्मनः प्रत्यक्षत्वाभावे प्रतिसन्धानासंभवः] . 'सामानाधिकरण्यं च स्मरणानुभवादिषु । अनुसन्धीयमानं यदृश्यते तत्कथं भवेत् ॥ .. 'पूर्व अहममुमर्थमनुभूतवान् , अहमेवाद्य पुनरनुभवामि' इति तुल्यविषयं तावत्। तुल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्येत ॥ ज्ञानेच्छासुखदुःखादि किलेदं लिङगमात्मनः । एकाश्रयतया ज्ञातं अनुसन्धातृबोधकम् ।। तथात्वेन च तद्ज्ञानं आश्रयज्ञानपूर्वकम् । ज्ञाते तत्राफलं लिङगं अज्ञाते तु न लिङगता ॥ * न्यायभाप्यम् 3-1-15 ॥ न इच्छन्ति–इत्यन्वयः॥ । स्मरणा-ख, 'क्यते-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy