________________
षष्ठमाह्निकम्
261 मनुना च *पङिक्तपावनत्वेनाधिगतव्याकरणः मीमांसकश्च स्वस्मृतौ पठितौ
'यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्' इति । पुष्पदन्तो ऽप्याहभ्रष्टः शापेन देव्याः शिवपुरवसतेर्यद्यहं मन्दभाग्यः
भाव्यं वा जन्मना मे यदि मलकलिले मर्त्यलोके सशोके । स्निग्धाभिर्दुग्धधारामलमधुरसुधाबिन्दुनिष्यन्दिनीभिः - कामं जायेय वैयाकरणभणितिभिःतूर्णमापूर्णकर्णः ।।
. [व्याकरणेन वेदसहकारः] . एवं व्याकणाभियोगसुलभप्रौढोक्तिभिः पण्डितः । , अक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते । अन्यैरप्युपबृंहिते दृढत रैरङगैः निरुक्तादिभिः वेदे स्वार्थ धियं वितन्वति कुतः प्रामाण्यभङगो भवेत् ।।
अडगभावनिरपेक्षयैव नः __ प्रत्ययो यदि ह शब्दविद्यया । वैदिकार्थविषयो विधीयते । तत्कुतस्त्य'मितरेतराश्रयम् ।।
* एते पंक्तावुपविश्य भुञ्जानाः तत्रत्यान् सर्वान् पावयन्ति॥ - व्याकरणाध्ययनवेलायां तस्य वेदाङ्गत्वज्ञानस्यानपेक्षितत्वान्नान्योन्याश्रयः॥ * प्रत्ययः-विश्वासः॥
1 रास-ख,
2 परास्त-ख.