SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 260 न्यायमञ्जरी विचारेण। सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाम्बरमेवंप्रायैः परि. वादपांसुपातैः न मनागपि धूसरीकर्तुं पार्यत* इति सिद्धम् ॥ तस्मात् पवित्रात् सर्वस्मात् पवित्रं आर्यजनबहुमतं अधिगतचतुर्वर्ग अग्राम्यमात्मानं कर्तुं अध्येतव्यं व्याकरणम् || . [व्याकरणस्यावश्याध्येयत्वोपसंहारः ] आह च आपः पवित्रं 'प्रथम पृथिव्यां __ अपां पवित्रं परमा हि मन्त्राः । तेषां च सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहुः ।। [व्याकरणाध्ययनप्रशंसा ] इहाप्युक्तम् रूपान्तरेण देवास्ते विहरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ।। . किंच वरं हि जातास्तिमयो गभीर जलाशये पङिकनि नित्यमूकाः । न मानवा व्याकरणाभियोगप्रबुद्धसंस्कारविहीनवाचः ।। - - * प्रत्युत प्रक्षेप्तुः शिरस्येव ते पतेरन् । * तिमयः-जलचराणिविशेषाः ॥ 1 परम-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy