________________
257
सप्तममाह्निकम्
[साध्वसाधुशब्दप्रयोगस्य पुण्यपापहेतुत्वम् ] यदपि *परार्थत्वात् फलश्रुतिमर्थवादीकुर्वता पुण्यपापफलत्वं दूषितम्, तदपि न सांप्रतम्--अर्थप्रतीतिपाराक्षं सत्यपि प्रयोगनियमापूर्वद्वारकपुण्यपापफलत्वसंभवात् । पर्णमय्यादिष्वपि तथा प्रसंग इति चेत्-भवतु को दोषः? नैयायिकैः एकाकार निरवलम्बनार्थवा' दपदोपदेशानभ्युपगमात् शब्दशक्तितात्पर्यपर्यालोचनमपि तैरन्यथा क्रियत इति प्राग्विचारित (आह्निक ४) मिति तिष्ठत्वेषा कथा। तेन 'कामधुग्भवति' इत्यादिवचनान्यपि व्याकरणाध्ययनफलप्रकटनपटूनि तथैव नेतव्यानि ॥
[सूत्रे प्रयोजनाकथननिदानम् ] यदपि सूत्रकृता स्वयं प्रयोजनं किमिति न व्याहृतमिति व्याहृतंतदप्यषणमेव-व्याकरणं हि वेदांगमिति प्रसिद्धमेतत आ हिमवतः, आ च *कुमारीभ्यः। वेदश्च यदि निष्प्रयोजन:-स्वस्ति प्रजाभ्यः, समाप्तानि दृष्टादृष्टफलानि सर्वकर्माणि, जितं चातुर्वर्ण्यबाझैः अन्त्यजनपदवासिभिः म्लेच्छैः ॥ .
अथ सप्रयोजनो वेदः सोऽगवत्त्वात् अंगैः सहैव सप्रयोजनतां भजत इति कोऽर्थः प्रयोजनान्तरचिन्तया। न हि दर्शपूर्णमासप्रयोजनादन्यत् प्रयाजादिप्रयोजनमन्विष्यत इति मन्वानः स्वयं सूत्रकृत् प्रयोजनं नाख्यत् ॥
व्याख्यातारस्तु मुख्यानुषंगिकभेदभिन्नप्रयोजनप्रपंचप्ररोचनातिशयव्युत्पादनद्वारकश्रोतृजनोत्साहपरिपोषसिद्धये दर्शितवन्त इति न कश्चिदुपालभ्यः ॥
* परार्थत्वत्-विधिप्रतिषेधार्थत्वात् ॥ + निरवलम्बनेति । निर्विषयेत्यर्थः ॥ * कुमारी-कन्याकुमारीप्रदेशाः ॥
1 दो-च.