________________
258
न्यायमञ्जरी [व्याकरणस्य वेदाङ्गत्वसमर्थनम् ] ___कथं पुनरंगता व्याकरणस्य ? कमुपकारमावहत इति। कस्यैष पर्यनुयोगः ? वेदवत् अंगानामनादित्वात् ईश्वरप्रणीतत्वाद्वा पर्यनुयोजनानुपपत्तेः। संक्षेपविस्तरविवक्षया हि पाणिनिपिंगलपराशरप्रभृतयः तत्र तत्र कर्तारः प्रसिद्धिं गताः । परमार्थतस्तु वेद इव तदर्थोऽपि, तदर्थावग मोपायोऽपि हि सर्व एवानादयः, प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या एव। अत एव वेदैस्तदङगैश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते
'अङगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश' इति ॥
[भाट्टोक्तशब्दसंस्कारादिपक्षः]. येऽपि शब्दसंस्कारादिविकल्पाः कृताः-तेऽपि बहुभाषित्वापस्मार निर्मिता एव, न वस्तुस्पृशः। शिष्टा 'एवात्र प्रष्टव्याः। . त एव च जानन्ति–के संस्कृताः शब्दाः ? के वा तद्विपरीताः। कश्च तेषां संस्कार इति। न च तावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रूमः, वेदवदनादित्वस्य दर्शितत्वात्। अन्धपरम्पराप्रसङगदोषपरिजिहीर्षया तु शिष्टप्रयोगमूलत्वमभिधीयते। वैद्यकस्मृतेरिव अन्वयव्यतिरेकमूलत्वात् । ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दाः ते शिष्टस्तथैव प्रयुज्यमाना दृश्यन्ते, हरीतकीभक्षणादिवारोग्यम् । न तु शिष्टेभ्यः शब्द. समाम्नायमधिगम्य पाणिनिः ग्रन्थं प्रणीतवात्। न चान्वयव्यतिरेकाभ्य द्रव्यशक्तीरवगम्य चरकं *प्रणीतवानिति विद्या नामनादित्वाभिधानात् ॥
____ * किन्तु अनादिकालप्रवृत्तगुरपरम्परोपदेशलब्धज्ञानेन। आदिम, उपदेष्टा तु ईश्वर एव॥
1 मो-ख,
'के-ख,
३ शिष्टा-ख.