________________
256
न्यायमञ्जरी काशसंभवात् । साधुभिरेव भाषणस्य *भोजनप्राङमुखतादिवत् नियमादृष्टसाफल्यात् ॥
[साध्वसाधुशब्दोपदेशसंभवः] यदपि साध्वसाधुस्वरूपानवधारणात् प्रतिपदोपदेशाधशक्य वं आशङकितं तदपि प्रतिविहितम्-यादृगिदं प्रत्यक्षानुमानगम्यं साध्वसाधुशब्दस्वरूपं व्याख्यातं, तदवलम्बनपुरस्सरवियल करणस्य सुशकत्वात् ॥
अत एव साधुत्वं नाम किमुच्यते इति यद्विकल्पितं तत् प्रतिविहित मेव भवति । यतः व्याकरणलक्षणानुगविशेषितं वाचत्वं साधुत्पमित्युक्तम् । तच्च सर्वानुगामिगोत्वादिवत्सामान्यं वा भवतु। पाचकत्वादिवत् असत्यपि सामान्येऽवच्छेदकं भवतु। सर्वथा तत्कृतो निर्वहति सर्वो व्यवहारः। वर्गीकरणे हि तदेव कारणनिति ।।
अथवा पुनरस्तु वाचकत्वमेव साधुत्वम् ; तथापि तत्र नियमशास्त्र साधुभिरेव भाषितव्यमिति प्रवर्तितुमहत्येव ॥
_[साधुशब्दभाषणविधेनियमविधित्वसंभवः ] , यद्यप्यसाधोरवाचकत्वात् प्रयोगप्रसङगोनास्ति-तथापि साधुस्मरणसरणिसमुपारूढवाचकत्वशङकोपप्लवमानप्रसङगनिवृत्तये नियमसाफल्य भविष्यति । विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्य असाध शब्दनिवृत्तिः स्थास्यतीति सोऽपि न दोषः ॥
* भोजनस्य रागप्राप्तावपि स्नानादिनियमार्थ विधानवत् नियमविधिरयम् ॥
तत्कृतः-अवच्छेदकत्वकृतः ॥
स्ववर्गा