________________
255
षष्ठमाह्निकम्
[ साधुत्वासाधुत्वयोः शास्त्रगम्यम् ] यदि वा पाणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमाचमनादिविधिवद्वेदिकमपि तथाविधं विधिवाक्यं कल्पयितुं शक्यमिति* शास्त्रस्यापि नाविषयः साधुत्वम् ॥
[वैयाकरणानां प्रयोगस्य उपादेयत्वम् ] शब्दवित्प्रयोगश्च सडकररहित एव। तथा हि-अन्या एव निर. वद्यवर्णक्रमोदीरणोदारगम्भीरगतयः सूक्तयः सूरिजनस्य। अन्या एवं दुःश्रवाः कुस्सितसङकीर्णवर्णविभागविनिहितहृदयोद्वेवाः ग्राम्या :गिरः इति प्रत्यक्षमुपलभ्यते ॥ . __स चायमसङकरः प्रयोगः व्याकरणसहायक प्रतिपद्यमानः साधुत्वावगमोपायतां भजत एवेति सर्वथा नाप्रामाणकः साध्वसधुशब्द विभाग इति ॥
एवं च 'ब्राह्मणेन न म्लेच्छित वै नापभाषित वै' 'म्लेच्छो हवा एष यदपशब्दः' इत्याद्यागमशब्दान्यपि तदुपयोगीनि व्याख्या'तानीव' भवन्तीति ||
[विधेः नियमकरणसंभवः ] ___ यत्पुननियमशास्त्रे 'साधुभिर्भाषितव्यम्, असाधुभिर्न' इत्यस्मिन्नपभाषितं, तदपि न पेशलम्-न हि नीरपानोपदेशवत् कृशानुपाननिषेधवद्वा ऽनवकाशमिदं शास्त्रं; अपशब्दानामनार्यजनववनप्रतिष्ठानां यथातथाऽर्थप्रतीत्युपायत्वदर्शनपूर्वकप्रयोगप्रसङगानपायेन प्राप्तौ सत्यां प्रतिषेधस्याव
* स्मृत्या श्रत्यनुमानस्य संप्रतिपन्नत्वात् ॥
1 तवाक्येन-ख.