SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 254 न्यायमञ्जरी तरभूपतिपरिपाल्यमानवर्णाश्रमाणां शङिकतकृतककपटार्यवेषदुष्टशूद्रताव्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति–एवमि हापि विशिष्टशब्दश्रवणानन्तरकालप्रवृत्तव्यवहारावगमार्थप्रतिपत्तिसहितं शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङगमव्यभिचारि तत्स्वरूपावधारणे कारणं भविष्यति। यदेवलक्षणकमर्थप्रत्यायकं च शब्दस्वरूपं, तत साधुतयाऽवधृतमिति व्याप्तिग्रहणोपपत्तेः ॥ प्रमाणम् [शब्दसाध्वसाधुत्वयोः शास्त्रमपि प्रमाणम् ] शास्त्रमपि श्रुतिस्मृतिरूपं अदुष्टशब्दप्रयोगोपनतऋतूपकारकरणक. स्वर्गादिफलसंयोगमुपदिशत् अपशब्दभाषणप्रभवप्रत्यवायप्रतिपादकं च 'वाग्योगविदुष्यति चापशब्दैः' इत्यादि साधुत्वेतरपरिच्छेदे प्रमाणतां प्रतिपद्यत एव ॥ [ शास्त्रेण साध्वसाधुशब्दनिर्णयः] ननु !1 व्रीहिकलंजवत् तत्स्वरूपसिद्धौ सत्यां तद्विधिप्रतिषेधयोः शास्त्रं क्रमते ; न तु तत्स्वरूपमेव विधत्ते, स्वरूपस्याभावार्थत्वेन* विधिविषयत्वायोगात् इत्युक्तम्-सत्यम्-किन्तु श्रुतिस्मृतिशास्त्रयोः धर्मोपदेशिनोः यथोपणितेनैव प्रकारेण साध्वसाधुविषयविधिनिषेधपरत्वम् । तत्स्वरूपप्रतिपत्तिाकर्तव्यतापरंतु विध्यपेक्षितव्याकरणस्मृतिरूपमेव शास्त्रं वेदितव्यम्। मूलविध्यपेक्षितसाधुत्वान्वाख्यानपरत्वाच्च व्याकरणस्य मूलशास्त्रमपि तत्र सोपानव्यवहितं प्रमाणीभवत्येव || .. * अभावार्थत्वेन-धात्वर्थत्वाभावेन ॥ तथा च अधात्वर्थत्वेऽपि प्रतिपत्तिनियमविधिः संभवति ।। 1 आह-च, तं-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy