________________
षष्ठमाह्निकम्
253 स्वरूप इति तत्र परिस्फुरत्स्फुटक्रमवर्णात्मकपदग्रहणमेव साधुत्वग्रहणम् , तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव च असाधुत्वग्रहणमिति प्रत्यक्षम्ये एव साधुत्वासाधुत्वे इति ॥
[साधुत्वासाधुत्वयोः ऐन्द्रियकत्वम्] - ननु ! यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः प्रतिपद्यन्ते, व्याकरणाध्ययनवन्ध्यबुद्धयोऽपि प्रतिपद्येरन्। न च प्रतिपद्यन्ते। तस्मान्न ते इन्द्रियविषये इति-नैष दोषः। वैयाकरणोपदेशसहायकोपकृतश्रोत्रेन्द्रियगाह्यत्वाभ्युपगमात् । यथा हि ब्राह्मणत्वादिजातिः उपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति । यथाऽऽह 'न हि यत् गिरिशृङगमारुह्य* गृह्यते तदप्रत्यक्षम्' इति । यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधेऽपि प्रामाण्यमुपपादितमादौ ।।
किल संज्ञोपदेशिना पनसोऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पनसज्ञानमुत्पद्यते, सङकेतकरणकाले तदुभयजमिति अव्यपदेश्यपदेन व्यपनीतम्। व्यवहारका ले तु पुनः पनसादिज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनित. मपि चाक्षुषमेवेति वर्णितम् । एवमिहापि व्याकरणकोविदोपदेशसचिव श्रवणेन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते ॥
.. [ब्राह्मणत्वादेः आचारगम्यत्वेऽपि प्रत्यक्षत्वम् ]
यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तं-क्वचिदाचारतश्वापि सम्यग्राजानुपालितादिति मन्वादिदशितानवद्य वा नुसरणनिपुण.
_
* उन्नतस्थानस्थितिर्हि क्वचित् प्रत्यक्षकारणं भवति ॥
___1 ले-ख,
धर्मा-च,