________________
252
न्यायमञ्जरी किन्तु व्यपनीतातिव्याप्त्यादिदोषोपनिपा'तत्रास त्रिमुनिपरीक्षितलक्षण द्वारकस्तदुपदेशः श्रूयते। तेन च वेदेनेव धर्माधर्मयोः, ब्रह्मावतारेणेव सत्यानृतयोः, नीतिशास्त्रेणेव हिताहितयोः, मन्वादिवचनेनेव भक्ष्याभक्ष्ययोः, दिव्येनेव शुद्धयशद्धयोः सिध्यत्येव साध्वसाधुशब्दयोरधिगम इति सर्वलोकसाक्षिकमेतत् कथमपनीयते ? ____ दृश्यते यद्यत्वेऽपि व्याकरणकोविदानामितरेषां च कृषीवलादीनां अतिमहान ववसि विशेष इत्येवं प्रमादादिमूलगाव्याद्यपशब्दप्रयोगसंभवात् अनेकशब्दगतवाचकशक्तिकल्पनागौरवप्रसङगात् अभियोगविशेषसाध्यमान साध्वसाधुशब्दाधिगमसौकर्याच्च गवादीनामेव वाचकत्वं, न गाव्यादीनामिति स्थिते पूर्वपक्षोपन्यस्तः समस्त एव परीवादः परिहृतो वेदितव्यः॥
[शब्दसाधुत्वस्य प्रमाणगम्यत्वप्रदर्शनम् ] तथाहि । यत्तावदभ्यधायि साधुत्वनिश्चये प्रमाणं नास्तीति__साधुत्वं नेन्द्रियग्राह्य लिङगमस्य न विद्यते ।
. शास्त्रस्य विषयो नैष प्रयोगो नास्त्यसंकरः ॥ इति-तत्रायं प्रतिश्लोकः
साधुत्वमिन्द्रियग्राह्य लिङगमप्यस्य विद्यते । .
शास्त्रस्य विषयो ऽप्येवं प्रयोगोऽप्यस्त्यसंकरः ।। इति। श्रौत्रे हि प्रत्यये *ग्रस्तनिरस्तरोमशाम्बकृतादिदोषरहितोदात्तादिधर्मसंबन्धप्रसिद्धानुपूर्वीकवर्णगणात्मकपदप्रतिभासस्तावदस्ति । स च न संदिग्धः, न बाधकविधूतधैर्यः, नाशुद्धकरणजन्मा, न कल्पनामात्र
* 'लुप्तवर्णपदं ग्रस्तं निरस्त त्वरितोदितम् । अम्बूकृतं सनिष्ठेवम्' इत्यमरः । रोमशः कर्कशः॥
1 त:-ख.