SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 251 षष्ठमाह्निकम् [ अपभ्रंशेषु शक्तिभ्रमादेव बोधः ] - किमक्षिनिकोचादीनां अन्त्यजनपदवाचां नास्ति शक्तिः? ओमित्यच्यते । कथं तहिं तेभ्योऽर्थप्रतिपत्ति सगिकी? तेषां शक्तिर्नास्तीति ब्रूमः। तत्स्वरूपस्याव्यवस्थितत्वेन सांसिद्धिकशक्तिपात्रतानुपपत्तेः। प्रतिपत्तिस्तु स्वकृतसमयमात्रनिबन्धना तेभ्यः ॥ [साधुशव्देषु शक्तिग्रहमूलम् ] • ननु! नैयायिकानां वा न समयः प्रतिपत्त्युपायः ? सत्यम्-स त्वीश्वरप्रणीतः प्रथमसर्गात् प्रभृति प्रवृत्तः मीमांसकाभ्युपगत *नैसर्गिकशक्तिसोदर्य एव ; न मादृशरचितपरिमितविष'यसमय' समानः। स च गवादिशब्देष्वेव प्राप्तप्रतिष्ठः, न गाव्यादिषु। ते तु वर्णसारूप्यच्छायया गवादिशब्दस्मृतिमादधानाः तदर्थप्रतिपत्तिहेतुतामुपगच्छन्ति ॥ [ साध्वसाधुशब्दपरिज्ञानोपायः ] ननु ! अनवधृतस्वरूपाणां कथं गवादिशब्दानां स्मरणम् ? तदवधारणे वा कोऽभ्युपायः ? अभियोगविशेष इति ब्रमः। कः पुनरभियोगः? को वा तस्य विशेषः? व्याकरणाध्ययनं अभियोगः। तदभ्या. सानुसारेण लक्ष्यनिरीक्षणं तस्य विशेषः । व्याकरणेन च प्रतिपदमपर्यवसितमार्यजनप्रयोज्यसाधुशब्दसार्थसङग्रह'तः तद्विसदृशबर्बरपुरन्ध्रिप्रायप्राकृतगोचरापशब्दपरिहारप्रकारव्युत्पादनमुपक्रम्यते, यदानन्त्यात किल कल्पशतैरपि नावकल्पते ॥ ___ * मीमांसकाः किलातिरिक्तशक्तिवादिनः॥ * अभियोगः - अनुग्रहः। सहायता ॥ 1 य-च तद्वि-च
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy