SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 250 न्यायमञ्जरी [ गोगाव्यादिपदवैलक्षण्यम् ] अनेकार्थवाचिनि चैकस्मिन् वाचके इष्यमाणे शब्दोऽथ व्यभिचरेत् , तस्येवार्थान्तरस्यापि ततः प्रतिपत्तेरिति इत्थमनियमोऽयमुपप्लवेत। हस्तः करः पाणिरित्यादौ। अक्षाः, पादाः, माषा इत्यादौ तु किं क्रियते ?। गतिरन्या नोपलभ्यते। तेनानेकशब्दत्वं अनेकार्थत्वं दैवबलवत्तयाऽङगी. कृतम् ॥ प्रथमः पुनरेष ऋजुः पन्थाः, यदेकस्य वाचकस्यैको वाच्योऽर्थ इति । इह च गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम। तस्मिन् सति किमिति प्रथमप्राप्तोऽयं प्रतिवाच्यं वाचकनियमक्रमो लङघयते। तेन प्रमादापराधनिबन्धना गाव्यादयः, न गवादिसमानमहिमान इति युक्तम् ॥ [गाव्यादिपदेषु शक्तिग्रहासंभवः] किंच वाचकशक्तिर्नाम सूक्ष्मा परम परोक्षा अर्था पत्तिमात्रशरणावगमा, न तन्मन्दतायां। *अन्यतः कुतश्चिदवगन्तुं पार्यते। सा चेयमन्यथा sप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति । तेषु शक्ति कल्पनायामापत्तिः। एवं च गवादय एव वाचकशक्तेराश्रयाः नगाव्यादयः ।। [अपभ्रंशैः व्यवहारनिर्वाहक्रमः ] कथं तहि बहूनामनधिगतव्याकरणतन्त्राणामेभिरविच्छिन्नो व्यवहारः ? यथैव म्लेच्छभाषाभिः अक्षिनिकोचहस्तसंज्ञादिव्यवहारिणां वा स्वैः स्वरुपायैः॥ ___* तन्मन्दतायां-अर्थापत्तेः दुर्बलत्वे । अन्यथापि कार्य सिद्वौ ॥ " 1 तु-ख, -ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy