________________
249
षष्ठमाह्निकम् प्रयत्नेन शब्द उच्चारितो वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितः मूर्धानमाहत्य परावृत्तः वक्त्रे चरन विविधान् शब्दानभिव्यनक्ति । तत्रापराध्येताऽप्युच्चारयिता-यथा शुष्के पतिष्यामीति कर्दमे पतति, सदुपस्पृक्ष्यामीति द्विरुपस्पृशति' इत्यादिना ॥
[अपभ्रंशशब्दानामनादित्वासंभवः ] · आह-विशेषे तहि प्रमाणं वक्तव्यं-यदेते गाव्यादयः प्रमादाद्यपराधनिबन्धना एव, न गवादिशब्दसमानविधय इति-उच्यते । भवतु, सिद्धं नस्समीहितं-संशयदशां तावदानीतोऽयं अनादिगाव्यादिशब्दवाची महापुरुषः संबोध्यते 'भो महात्मन! इत्थं पूर्वोक्तनीत्या संशये सति, चिन्त्यताम् ! किमेते गाव्यादयो गवादिसमानयोगक्षेमा एव हस्तः करः पाणिरितिवत् भवन्तु । किंवाऽपराधसंभावनया मार्गान्तरमालाम्बन्तामिति॥
. [ अपभ्रंशपदानां साधुपदपर्यायत्वाभावः ]
तत्रैकस्मिन् वाच्ये बहवस्तुल्यकक्ष्या वाचका इति नैष न्यायः। कथम् ? प्रत्यर्थं शब्दनिवेशात् । तेनैव सम्बन्धकरणसौकर्यात् । अन्यथा च संबन्धे यत्नगौरवप्रसङ्गात् । प्रत्यर्थं शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ शब्दार्थो भवतः, स शब्दः तस्य वाचकः, सोऽर्थः तस्य वाच्य इति । अनेकशब्दवाच्यस्त्वेकोऽर्थः तं वाचकं शब्दं विजह्यादपि, *तमन्तरेण शब्दाभिधेयतामपि प्रतिपद्यते इतिव्य भिचारः ।।
* हस्तः, करः इत्यादिशब्दात्तु सूक्ष्मार्थभेदेन भिन्नधातुनिष्पन्नाः ।गौः, गावि इत्यनयोस्तु न तथास्वमिति ।।