________________
248
न्यायमञ्जरी प्रकारः। न ह्येकान्तेन यादृर्गव वक्त्रा शब्दः प्रयुज्यते तादृगेव *श्रोत्रा प्रत्युच्चार्यते। किन्तु प्रमादालस्यादिविविधापराधविधुरकरणोच्चार्यमाणोऽपभ्रंशतां स्पृशन् दृश्यत इत्यस्ति संशयावसरः ॥
[ अपभ्रंशोत्पत्तिक्रमः ] अपभ्रंशतयाsपि ये स्थिताः, स्थास्यन्ति वा शाकटिकभाषाशब्दाः, तानपि गोपालबालाबलादिषु प्रयुंजाना जरठपामराः प्रयत्नेनापि न यथोच्चारितानेव तान् पाठयिक्तुं शक्नुवन्तीति अशक्तिजशब्द प्रयोगबाहुल्य. दर्शनात संशयाना कुशाग्रबुद्धेरपि बुद्धिः भवितुमर्हति 'किमेते गवादिशब्दा एवानादिसिद्धवाचकशक्तिभाजः, तेभ्योऽन्ये विगुणकरणप्रयोज्याप्रमादप्रभवाः अपभ्रंशाः ? किंवा सर्व एव तुल्यकक्ष्या इति । षांस तुल्यकक्ष्यत्वे, य एतेऽद्यत्वेऽपि प्रमादतः प्रम दादासदारकादिवदनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तः तेऽपि तामेव गवादिशब्दधुरामधिरोहेयुः ॥
[ अपभ्रंशानां न साधुशब्दतौल्यम् ] न चैवमस्त्विति शक्यमभ्यनुज्ञातुम् , इदनीमेव भ्रश्यतां तेषां प्रत्यक्षत उपलब्धेरिति । तस्माददश्यं तावत् अद्यत्वे परिदृश्यमानाऽपभ्रंशदृशा दुर्बलबालाबलादिशब्दाः न गवादिशब्दान् स्पधितुर्महन्ति । ते चेन्न स्पर्धन्ते तदधुना गाव्य दयोऽपि प्रकारान्तरोपपत्तिसंभावनाभङगुरप्रभावाः सन्तः न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुविति तर्कयामः ॥
तदुक्तं भगवता जैमिनिना 'शब्दे प्रयत्ननिष्पत्तरपराधस्य भागि. त्वम्' (जै.सू. 1-3-25) इति। भाष्यकारेणापि तद्व्याख्यातम् 'महता
* उच्चारणानूच्चारणवेलायामिदम् ।।
बा-ख
दा-ख