________________
षष्ठमाह्निकम् .
247 [व्याकरणस्यावश्याध्येयत्वम् ] अत्राभिधियते-यत्तावदिदमवादि-गवादिशब्दवत् अनादिप्रबन्धसिद्धमेव गाव्यादेरपि वाचकत्वमिति-तत्रामुं पक्षं संशयदशामेव तावदारोपयापः। पूर्वपाक्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसमनन्तरं सहसैव सम्यग्ज्ञानोत्पादनातिभारात् भारैकदेशावतरणन्यायेन संशयस्तावदपपद्यते। ततः तर्कात परिशोधितेऽध्वनि सुगमे सुखं विहरिष्यति सम्यङनिर्णयोपायो न्याय इति तदुच्यते। यदि गाव्यादीनां गवादीनामिव शब्दानां प्रयोग गतिरन्या न काचित् संभावनाभूमिमध्येति, तत् सत्यमादिसत्तायाः कल्पने कोऽवसरः॥
यथाहि स्वाध्यायाध्ययनसमये यादृशमेव शब्द यथोदितमात्रानुस्वारस्वरादिस्वरूपसमुत्थं तमुच्चारयत्याचार्यः, तादृशमेव तं शिष्यः प्रत्युच्चारयति । प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति। आ तदुच्चारण. सामोपजननं तावत् न मुंचति, शिक्षयति । सोऽपि शिष्टः यदा गुरुर्भवति, तदा स्वशिष्यं तथैव शिक्षयिष्यति। आचार्योऽपि यदा शैशवे शिष्य आसीत् , तदाऽन्येन गुरुणा शिक्षितोऽभूत् । सोऽपि तदन्येन । सोऽपि तदन्येनेत्येवमनादित्वं *जैमिनीयपक्षे, आ जगत्सर्गात्प्रभृति प्रवृत्तत्वं वा नैयायिकपक्षे वेदस्य व्यवस्थितम् ॥ ..
[ साधुशब्दव्यवस्थाप्रदर्शनम् ] इत्थमेव यदि गाव्यादीनां गवादिव'दप्रमादकृतः सुपरिरक्षितःप्रयोगः, तथैव चैतेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारः तदाऽनादिगवादिशब्दसमानविषया एव गाव्यादय इति तदा कस्य किं ब्रूमः। अस्ति त्वत्रापरः
* ते हि शब्दनित्यत्ववादिनः ॥
'त् प्रमाद-ख.