________________
246
न्यायमञ्जरी स्खलितं विप्लुतं च पाणिनितन्त्रं इति मन्यमानाः तत्र महान्तमाक्षेपमता. निषुः स तु स्थूलोदरप्राय इति इह ग्रन्थगौरवभयान लिख्यते ॥
[व्याकरणस्य शोधनमप्यशक्यम् ] ननु ! यदि लक्षणस्य प्रणेता पाणिनिः असम्यग्दर्शी, तत्र विवरणकाराश्च नातिपुणदृशः, काममन्यः सूत्रकृत् कृतबुद्धितरो भविष्यति, वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति । तेभ्यश्च शब्दलक्षणमविप्लुतमवभोत्स्यामह इति-नैतदस्ति-तेषामपि अभियुक्तराः केचिदुत्प्रेक्षन्त एव दोषं, तेषामपरे, तेषामप्यपरे। तदेवमनवस्थ प्रसङगानारित निर्मल. मनुशासनमिति क्लेशायैव ब्याकरणाध्ययनमहाव्रतग्रहणम् । तथा चाह* बृहस्पतिः प्रतिपदमशक्यत्वात्, लक्षणस्याप्यव्यवस्थानात्, तत्रापि स्खलित दर्शनात् अनवस्थाप्रसङगाच्च मरणान्तो व्याधियाकरणमित्यौशनसा इति । इहाप्युक्तम्
'दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ।
पितृभ्याभिशप्तो ग कुर्यात् व्याकरणे श्रमम् ॥' अन्यैरप्युक्तम्
'वृत्तिः सूत्रं तिला माषा: कटन्दी कोद्र बोदनः । अजडाय प्रदातव्यं जडीकरणमुत्तमम्' इति ॥ एवं व्याकरणावगाहनकृतोद्योगोऽपि विद्वज्जनः
व्युत्पत्ति लभते न वैदिकपदग्रामे मनुष्योक्तिवत् । अन्यत्किंचन तत्प्रतीतिशरणं नास्तीति च व्याकृतं
तस्मादप्रतिपत्तिमन्थरमुख वेदाः प्रमाणं कथम् || * बृहस्पतिरध्यापयिता। इन्द्रोऽध्येता। दिव्य वर्षसहसमायुः । तथापि नान्तं जगामेति ॥
* कटन्दीति वैशेषिकभाष्यविशेष इति चक्रधरः ।।
1 सूची-क
पदी-क, पी-ख