________________
244
न्यायमञ्जरी [प्राधान्यमपि न कर्तुः ] ___अथ मतं अगणतो' धातुनाऽभिधीयमानव्यापारः कर्ते ति, तदप्यसत्सकृदुच्चरितो धातुः अनेकस्मित् कारकचके कस्यचिद्गुणत्वेन कस्य चित्प्राधान्येन व्यापारं कथमिव कययितुं शक्ष्यतीति । 'तत्प्रयोजको हेतुश्च' इति प्रयोज्येनैव व्याख्यातम। एवं कारकानुशासनस्याव्यवस्थानात् तदधीनप्रसक्तविभक्तिविधानमपि प्रत्युक्तम्, 'अपादाने पंचमी' 'सप्त. म्यधिकरणे च' इत्यादिविषयनिरूपणपूर्वकत्वात् तद्विधानस्येति ॥
[समासत्वस्य दुर्वचत्वम् ] किच-यदपि कृत्त द्धितसमासानुशासनं, तत् सामर्थ्यनियमपूर्वकम् । 'समर्थानां प्रथमावा' 'समर्थः पदविधिः' इति परिभाषणात् । तदत्रापि वक्तव्यम्-सामर्थ्य नाम किमुच्यत इति। एकार्थान्वयित्वमिति चेत् । तत् कुतोऽवगम्यते ? तद्धितसमासप्रयोगप्रतिपत्तिभ्यामेवेति चेत्, तहि ताभ्यां सामर्थ्यावगमः, सामर्थ्य सति तयोः प्रवृतिरितीतरेतराश्रयम् ॥ __ अपि च सामर्थ्यमन्तरेणापि क्वचित प्रयुंजते समासम्, अश्रद्धभोजी, दधिघटः, गोरथः,* इति । तथा, सत्यपि सामर्थ्य तद्धितप्रयोगं परि हरन्ति' अङगुल्या खनति, वृक्षमूलादागत इति, आङगुलिकः वार्भमूल इति 'न' वक्तारो भवन्तीति एतदप्यसमंजसमनुशासनम्॥
[प्रातिपदिकत्वमपि दुर्वचम् ] . तथा 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' इति संज्ञालक्षणमति. व्यापकम् , वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसंगात् ।।
___* प्रथमे ना सामर्थ्याभावः। समनन्तरयोः अपूर्णार्थत्वात् सामर्थ्या.
भावः ॥
1 गुणो-ख,
'त-ख,
दृश्यन्त-ख,
च-क,