SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ षष्ठमाह्निकम् : 243 [ कर्मत्वविशेषः ] अस्तु तर्हि 'तण्डुलान् पचति' इति, मा च भूत् 'ओदनं पचति' इति, ओदनस्य फलदशानुप्रवेशादिति–उक्तमत्र-तण्डुलेष्वपि तमबर्थो न वाचकः, तेषामपि फलसाधनोपयोगाविशेषादिति ॥ [ कर्तृत्वमपि दुर्वचम् ] 'स्वतन्त्रः कर्ता' इति किमिदं स्वातन्त्र्यं क्रियासंपाचं ? यदिच्छातः प्रवर्तनमिति चेत् ; 'कूलं पतति' इति चैतन्यशून्यतया कूलस्ये. च्छानुपलम्भात् अकर्तृत्वं भवेत् ॥ [कारकान्तरप्रेरकत्वादिकमपि न कर्तृत्वम् ] अथ यद्व्यापाराधीनः कारकान्तरव्यापारः स कर्तेत्युच्यते, सर्वकारकनिर्वय॑त्वात् क्रियायाः न विद्मः किव्यापाराधीनः कस्य व्यापार इति, समग्रकारकग्रामस्य परस्परसपेक्षत्वात् ॥ अथ यः कारकान्तराणि प्रयङक्ते, तैश्च न प्रयज्यते, स कर्तेतितहि पुनरचेतनानामकर्तृत्वप्रसङगदोषस्तदवस्थ एव । अथ धातुनाऽभिधीयमानव्यापारः कर्तेति, तत्रापि न विद्मः कस्य धातुनाऽभिहितो व्यापारः, सकलकारकवाचित्वात् पचेः । अन्यथा हि सकलव्यापारानभिधायिनि धातौ, तदर्थसाधने सर्वेषां सङगतिरेव न स्यात्। तथा च सति सर्वकारकणि कर्तृत्वमेव स्पृशेयुः ॥ * तथा च तत्र प्रथमा न स्यात् ॥ विक्लुप्त्यनुकूलव्यापारः खलु धात्वर्थः। स व्यापारः सकलकारकसाधारण एव ॥ -- 1 य-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy