________________
242
न्यायमञ्जरी
'पूर्वस्यां दिशि विहरति' इति कालादीनामव्यापार त्वात् अकारकत्वमेव भवेत् । तथा च सति एते प्रयोगा असाधवः स्युः ।।
[कर्मत्वमपि दुर्वचम् ] 'कर्तुरीप्सिततमं कर्म' इति साधकतमवदिहापि न वाचकोऽयमति. शायनः, सर्वकारकाणां क्रियाथितया कर्तुरीप्सिततमत्वात् ॥
अथ यदर्था क्रिया, तदर्थं कर्तुरीप्सिततमं; तदर्थं त्वन्यत् इति तत्र "तमप्प्रत्य इत्युच्यते-तहि तस्य कारकत्वमेव न युक्तम्। क्रियासंपादकं हि कारकमुच्यते, 'न क्रियासंपाद्यम्। क्रि यासंपाद्यं तु फलं भवति, न कारकम् । कारकं च, क्रियया चाप्तुमिष्टतमं इति च विप्रति..
षिद्धम् ॥
[क्रियानिर्वर्तकस्वं न कारकत्वम् ] अथाभिधीयते क्रियोपयोगयोग्यतानिबन्धनोऽयं कारकव्यपदेशः । स च विचित्रः क्रियोपयोगः। अन्यथा करणस्य, अन्यथाsधिकरणस्य, अन्यथा संप्रदानादेः। इह च क्रियासाध्यत्वेऽपि ओदनस्य तत्कियोपयोगि त्वमनिवार्यम्, तमनुद्दिश्य क्रियायाः प्रवृत्त्यभावात्-इतीत्थमनेन रूपेण तस्य क्रियासाधनत्वात् कारकत्वमिति–नैतदेवम्-कारकत्वव्यपदेशो हि न पारिभाषिकः, कितु क्रियासंबन्धनिबन्धनः। क्रियासंबन्धश्च ईदृशःयदुपेया क्रिया, तदुपायः कारकमिसि। विपर्यये तु कीदृशः कारक विः ?
* अतिशायने खलु तमप्॥
1 ररूप-च,
संप्रत्यय-ख,
क्रि-खं.