________________
241
अष्ठमाह्निकम्
[करणलक्षणमपि न युक्तम् ] 'साधकतमं करणम्' इति तसबनियधारणात् अनुपपन्नम्। अनेक कारकसंदर्भसन्निधाने कार्यमात्मानं लभते। तेषामन्यतमव्यपगमेऽपि न लभ्यत इति ततः किमिव कारकरातिशय खचितवपुरिति, यं तमर्थं मडगलकलशेनाभिषिचामः । प्राचुर्येण हि प्रधानसंपत्तिपर्यन्त व्यापारयोगित्व मित्यादि सर्वसाधारणं न काष्ठकनिष्ठमिति 'काष्ठैः पचति' इति कथं तेषामेव करणत्वम् ?
. [अधिकरणलक्षणे दोषः] 'आधारोऽधिकरणम्' इति यदुच्यते, तत्र वक्तव्यम्। कस्याधार इति; क्रियायाः, कारकस्य वा? यदि क्रियाधारत्वं अधिकरणलक्षणम् अशेषकारकाणामधिकरणसंज्ञा प्रसज्येत, क्रियायोगाविशेषात् ॥ . ____ अथ यत्र स्थाल्यादौ कर्माश्रितं तण्डुलादि तदधिकरणम् ; 'समे देशे पचति' इति न स्यात्, 'अप्सु.पचति' इति स्यात्। 'कटे स्थितो भुडाक्ते' इति चापभ्रंशो भवेत् । कर्तुहि तत् अधिकरणं, न कर्मणः । कर्तृकर्मणोः क्रिया
श्रययोः धारणमधिकरण त्वेन कारक मिति चेत्, उभयधारत्वं न कटस्य, • न स्थाल्या इति द्वयोरप्यधिकरणता हीयेत । एकैकाधारत्वे तु तल्लक्षणे परस्परापेक्षया पुनस्तत्स्वरूपसांकर्यं भवेत् । यदि तु सकलकारकाधारत्वं अधिकरणलक्ष्णं, 'स्थाल्यां ओदलं पचति' इति न स्यात् , सकलकारकानधिकरणत्वात् । स्थाल्या अधिकरणस्य* चाकारकत्वप्रसक्तिः। न ह्यधिकरणमधिकरणाश्रितं भवति । 'मध्याह्ने स्नाति', 'रात्रावश्नाति',
* अधिकरणस्य-अधिकरणभूतायाः स्थाल्याः ॥ । यद्यपि सर्वाधारः काल उच्यते । परन्तु तदेवाक्षिप्यते ॥
1 शबलि-ख,
2 नं कार्य प्रति-ख,
त्वे कारण-ख. .
16