________________
240
न्यायमञ्जरी [कारकप्रकरणस्य दुःस्थत्वम् ] तथा कारकानुशासनमपि दुस्स्थम्। 'ध्रुवमपाये अपादानम्' इत्युच्यते। तत्र ध्रुवस्य वृक्षादेः-वृक्षात् पतितो देवदत्तः इति पतनक्रियायां अचलतः कृशमपि न कारकत्वमुत्पश्यामः । क्रियायोगि हि कारकम् । सा च वृक्षे नोपलभ्यत इति ॥
'सार्थाद्धीनः' 'रथात्पतितः' इति सार्थरथयोः क्रियोपलभ्यते, म . वृक्षवनिश्चलत्वमिति चेत्-सत्यम्-स्वरसप्रवृत्ता तयोरस्ति क्रिया। हाने याने च पादपनिविशेषावेव सार्थरथौ। न च यदेकस्यां क्रियायां* . कारकं, तत् सर्वासु क्रियासु कारकं भवति, अतिप्रसङगात् ॥ . .
[द्वितीयानुशासने दोषः : 'कर्मणा यमभिप्रेति स संप्रदानम्' इत्यत्र कर्मशब्द: क्रियावचनो वा स्यात्, ईप्सिततमकारकवाची वा? आद्ये पक्षे क्रियया सर्वकारकाण्यभिप्रेयन्त इति क्रियासु कारकाणि संप्रदानतां प्रतिपद्येरन् । न चोपाध्यायस्य किचिदभिप्रीयमाणस्य व्यापारमुत्पश्याम. इत्यसावकारकमेव तत्र स्यात्। प्रतिग्रहस्तु क्रियान्तरमेव। तत्र चोक्तं क्रियया चाभिप्रेयमाणं फलं भवति, न कारकमिति वक्ष्यामः ||
द्वितीयस्तु पक्षः कर्मणा कारकेण गवादिना यमभिप्रेतीति सुतरां संकटः। क्रिया संबन्धितया हि कारक कारकं भवति, न कारकसंबन्धितया, करोतीति कारकमिति व्युत्पत्तेः ॥
* सार्थ-रथयोः चलनवत्त्वेन गमनक्रियायां कारकत्वे पि पतनक्रियायां कथं कारकत्वम्॥
1 अवलग्न-ख
सं-ख
द्वितीयः। कारक-ख