________________
षष्ठमाह्निकम्
239 इति धातुः; अस्ति च 'यत्' इति सर्वनाम । तत्र च पाठप्रसिद्धरूपमात्रा विशेषात् अधातोरपि घट-भू-यच्छब्दरूपात् परे तिङप्रत्यया भवेयुः ॥
[क्रियावचनस्वमपिं न धातुलक्षणम् ] क्रियावचनो धातुरिति चेत्—'भवति' 'तिष्ठति' इत्येवमादीनाम'धातु त्वं प्रप्नोति, गण्डे श्वानर्थकः पाठः ॥ - उभयं तहि धातुलक्षणं * पाठः, क्रियावचनता चेति-न भवितुमर्हति । • तदपि हि व्यस्तं वा लक्षणं, समस्तं वा? व्यवस्तपक्षे प्रत्येकमभिहिते दोषस्तदवस्थ एव। समस्तपक्षेऽपि भवत्यादौ क्रियावचनत्वस्य द्वितीय लक्षणस्य चाभावादधातुत्वमेव स्यादिति। एवं धातोः प्रकृतेरनिर्णीतत्वात् कुतः परे तिङश्च कृतश्च प्रत्यया उत्पद्येरन् ||
[तिर्थोऽपि दुर्वचः ] किंच केचन तिङप्रत्ययाः कालाधुपाधयः न तद्वचनाः। अनुक्तेषु च कालादिषु तत्पूर्वकं वर्तमाने लट्, भविष्यति लुट् , भूते लुङ इति नियमनिरूपणमशक्यम् ||
उच्यतां तहि तिडभिः कालादय इति चेत-न-भाष्यविरोधात् । . उक्तं हि भगवता भाष्यकारेण 'भूते धात्वर्थ' इति । न च धात्वर्थेनैव
धात्वर्थो व्यवस्थापयितुं शक्यते । लिङादयश्च सुतरामनधिगम्यमान. विषयाः। ते हि विध्यादावर्थे विधीयन्ते । स च बिधिरूपोऽर्थः स्वरूप तश्च उपाधितश्च न शक्यो निर्णेतुमितिः ॥
* पाठः–तथा परिगणनम् ॥ + विधिनिमन्त्रणादीनां भेदस्यात्यल्पत्वादिति हेतुः॥
1 साधु-ख,
गमे-ख,
क्षे-ख.